________________
.२८१॥
प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह
जे ममायमई जहाइ से चयइ ममाइयं, सेह दिठ्ठपहे मुणी जस्स नथि ममाइयं. तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिजासि त्तिबेमि ॥
नारईसहई वीरे, वोरे न सहई रतिं । जम्हा अविमणे वोरे, तम्हावीरेन रजइ॥१॥सू०९८॥ ममायित-मामकं तत्र मतिर्ममायितमतिस्ता यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायित' स्वीकृत परिग्रह 'जहाति परित्यजति, इह द्विविधः परिग्रहो-द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहवृद्धिविषयप्रतिषेधाच्च बाटो द्रव्यपरिग्रह इति । अथवा काका नीयते, यो हि परिग्रहाध्यवसायकलुपितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमा चित्तस्य परिग्रहकालुष्याभावानगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतेव, यदि नामवं ततः किमित्याह'सेह' इत्यादि, यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहानिवृत्ताध्यवसायः, हुः अवधारणे, स एवं निः दृष्टो ज्ञानादिको मोक्षपथी येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षापारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वपवमसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह-'जस्स' इत्यादि, यस्य 'ममायितं' स्वीकृतं परिग्रहो न विद्यते सः दृष्टभयो मुनिरिति
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀