________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ २८० ॥
मद्यादिना 'विविध'
विषयकषायविकथानिद्राणां स्वभेदग्रहणं तेन पृथग् - विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्ण 'व' मिति वयन्ति - पर्यटन्ति प्राणिनः स्त्रकीयेन कर्म्मणा यस्मिन् स वयः - संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद, यदिवा कारणे कार्योपचारात् स्वकीयेन नानाविधप्रमादकृतेन कर्म्मणा वयः - अवस्थाविशेषस्तमेकेन्द्रियादिकला 'दादितदहर्जात बालादिव्याधिगृहीत दारिद्रथदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षेण करोति-विधत्त इति । तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीडयन्ते इति दर्शयितुमाह - 'जंसिमे' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्म्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा 'इमे' प्रत्यक्षगोचरीभूताः 'प्राणा' इत्यभेदोपचारात्प्राणिनः 'प्रव्यथिताः ' नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तै महाद्विपर्यस्तैः प्रमादवद्भिव गृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह - 'पडि' इत्यादि, एतत् संसारचक्रवाले स्वकृतकर्म्म फलेश्वराणामसुमतां गृहस्थादिभिः परस्तपरतो वा कम्र्म्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुर्निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्त्रिकरणं निकारः - शारीरमानसदुः खोत्पादनं तस्मै नो कर्म कुर्याद्, येन प्राणिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवतीत्याह'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा - एतत्तत्त्वतः परिज्ञानं प्रकर्षेणोच्यते प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविघयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह – 'कम्मोवसंती' त्ति कर्म्मणाम् - अशेषद्वन्द्वातात्मकसंसारतरुबीजभूतानामुपशान्तिः - उपशमः, कर्मक्षयः
लोकवि. अ. २
| उद्देशकः ६
॥ २८० ॥