________________
॥ २७६ ॥
षट्स्वन्यतरस्मिन् कल्पते-योग्यो भवति, अकर्त्तव्यप्रवृत्तत्वाद्, अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्स्वन्यतरस्मिन् कल्पते - प्रभवति, पौनःपुन्येनोत्पद्यत इत्यर्थः स्यात् किमर्थमेवंविधं पापकं कर्म्म समारभते १, तदुच्यते – 'सुहट्ठी लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः मन्नत्यर्थं लपति पुनः पुनर्वा लपति लालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः करोति मनसा च तत्साधनोपार्याश्चिन्तयति, तथाहि सुखार्थी सन् कुष्यादिकर्म्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्नि धर्मापनोदार्थं वायु आहारार्थी वनस्पतिं सकायं वेत्य संयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभत्रमायोज्यं । स चैवं लालप्यमानाः किंभूतो भवतीत्याह – 'सएण ' इत्यादि यत्तदुप्तमन्यजन्मनि दुःखतरुकर्म्मबीजं तदात्मीयं दुःखतरु कार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्र्म्मादयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति उक्तं च – “दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्ठां तया तया दुःखमादते ॥ १ ॥” यदिवा 'मूढो' हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति - हितमप्य हितबुद्धयाऽधितिष्ठत्यहितं च हितबुद्धयेति, एवं कार्याकार्यपथ्यापथ्य वाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्तं भवति - मोहोऽज्ञानं मोहनीय मेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानस दुःखव्यसनो पनिपातानामनन्तमपि काल पात्रतां व्रजतीति । पुनरपि मृढस्यानर्थपरम्परां दर्शयितुमाह - 'सएण ' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन
॥ २७६ ॥