________________
॥ अथ द्वितीयाध्ययने षष्ठोद्देशकः ॥
०२७७॥
Bal उक्तः पञ्चमोहे शका, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना
लोके ममत्वं न कर्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते-अस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नेवमनगारस्य जायत' इत्यभिहितम् , एतदेवात्रापि प्रतिपिपादयिषुराह
से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्म नेव कुज्जा नकारवेजा ॥ सू० ९६ ॥ यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपधातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्धयमान:अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरनादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदशनचारित्ररूपं तद् 'उत्थाये'त्यनेकार्थत्वादादाय-गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गंककारणमित्येवं सम्यगवबुद्धयमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्व सावा कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात् कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलं, अपरेणापि न कारयेदिति, आह च-न कारवे' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारविरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराच्चापरं कुर्वन्तं न समनुजानीयाद्योगत्रिकेणापि ।
||॥ २७७०