SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भीआचारावृत्तिः (शीलाङ्का. लोकवि. अ.. उद्देशकः५ ॥२७६॥ कर्णादीनां भेत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिना विलुम्पयिता अवस्कन्दादिना अपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते, किं च-'अकृतं' यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभृत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च-'जस्सवि य णं' इत्यादि, यस्याप्यसावेवंभृतां चिकित्सा करोति, न केवलं स्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपि कतु: कारयितुश्च हननादिकाः क्रियाः, अतो 'अलं' पर्याप्तं 'बालस्य' अज्ञस्य 'सगेन' कर्मबन्धहेतुना कर्तुं रिति, योऽप्येतत् कारयति 'बाल' अबस्तस्याप्यलमिति सण्टकः, एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततचस्य न भवतीत्याह-'न एवं' इत्यादि, एवम्भूतं प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा 'अनगारस्य' साधोः ज्ञातसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सा व्याधिचिकित्सा वा जीवोपमर्दैन प्रतिपादयन्ति ते बाला:-अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववदिति लोकविजयस्य पञ्चमोद्देशकटीका समाप्तेति ॥ ॥ इति पञ्चमोद्देशकः ॥ १-५ ॥ -::
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy