________________
०२७१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
'एष.' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेत्ता परित्यक्तविषयतर्षों वीरः कर्मविदारणात् 'प्रशंसितः स्तुत: विदिततत्वैरिति । स एवंभूतः किमपरं करोतीति चेदित्याह- -'जे बढे' इत्यादि, यो बद्धान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टे'जहा अंतो तहा वाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्य बन्धुवन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा-कथमसौ मोचयतीति चेत्तत्त्वाविर्भावनेन स्यादेतत्-तदेव किंभूतमित्याह-'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासाग्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं च-"यदि नामास्य कायस्य, यदन्तस्तवहिर्भवेत् । दण्डमादाय लोकोऽयं, शनः काकांश्च वारयेत् ॥१॥" इति, यथा वा बहिरसारता तथा:न्तरपीति । किंच-'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् 'देहान्तराणि' देहस्यावस्थाविशेषान् , इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि 'पश्यति' यथावस्थितानि परि. च्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति- 'पुढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां योगपद्येनापि स्रवन्ति नवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं ?-पंडिए पडिलेहाए' एतान्येवंभृतानि गलच्छ्रोतोव्रणरोमकूपानि 'पण्डितः' अवगततत्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्त च
॥ २७१॥
܀܀܀܀