________________
भीआचा
लोकवि. अ.२
राजवृत्तिः
उद्देशकः ५
(शीलाङ्का.) ॥ २७० ॥
जाणा, गडिए लोए अणुपरियहमाणे, संधि वित्ता इह मचिएहिं, एस वीरे पसंसिए । जे बढे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूछ
देहंतराणि पासइ पुढोवि सवंताई पंडिए पडिलेहाए ॥ सू० ९३ ॥ ___ आयतं-दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः-ज्ञानं यस्य स आयतचक्षः, कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुमति, किं च-'लोगविपस्सी' लोक विषयानुषणावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टु शीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊद्धर्वाधस्तिर्यग्भागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतदर्शयति-'लोगस्स' इत्यादि, लोकस्य-धर्माधर्मास्तिकापावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः यादृक् तत्र सुखदुःखविपाको भवति तं जानाति, एवमूतियग्भागयोरपि वाच्यं, यदिवा लोकविदर्शीति-कामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह-'गड्डिए' इत्यादि, अयं हि लोको 'गृडः'.अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रेवानुपरिवर्त्तमानो भूयो भूयस्तदेवांचरंस्तज्जनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमानः-पर्यटनायत चक्षुषो गोचरीभवन् कामामिलापनिवर्त्तनाय न प्रभवति ?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च-'संधि' इत्यादि, इह 'मर्येषु' मनुजेषु यो ज्ञानादिको भावसन्धिा, स च मर्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम् , अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस' इत्यादि,
२७