________________
श्रीआचा. रावृत्तिः (धीलाङ्का. ॥ २६८॥
लोकवि.अ.२ उद्देशकः ५
मेदवेदोदयात् प्रादुष्प्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं, तत्सद्भावे च न कामोच्छेद इत्यतो दुःखेनातिक्रमः-अतिलङ्घनं विनाशो येषां ते तथा, सतश्चेदमुक्तं भवति-न तत्र प्रमादवता भाव्यं । न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च–'जीवियं' इत्यादि, जीवितम्-आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिबृहणीयं दुरभावार्थे, नैव वृद्धिं नीयते इतियावत् , अथवा जीवितं-संयमजीवितं तदुष्प्रतिबृहणीयं, कामानुषक्तजनान्तवर्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपान्यते इति, उक्तं च-"आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो। थाहाहिं चेव गंभीरो, तरिअव्वो महोअही ॥१। वालुगाकवलो चेव, निरासाए हु संजमो। जवा लोहमया चेव, चावेयव्वा सुदुकरं ॥२॥" इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागम्यधायि तमभिप्रायमाविष्कुर्वनाह–'कामकामी' इत्यादि, कामान् कामयितुम्-अभिलषितु शीलमस्येति कामकामी 'खलु वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः 'पुरुष' जन्तुः। यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्शयति-से सोयईत्यादि, 'स' इति कामकामी ईपितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च"गते प्रेमाबन्धे पणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुत्प्रेक्ष्योत्प्रेक्ष्य
१ आकाशे गङ्गाश्रोत इष, प्रतिश्रोत इव दुस्तरः। बाहुभ्यामेव गम्भीरस्तरीतव्यो महोदधिः ॥ १॥ वालुकाकवल इव, निरास्वाद एव संयमः । यवा लोहमया एव, चर्वयि नव्याः सुदुष्करम् ॥ २॥
X.XX.XX
॥२६८॥