________________
॥ २६७ ॥
इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः - अनन्तरोक्तो मार्गः आराद्याताः सर्व हेयधर्मेभ्य इत्यार्याः- तीर्थकृतस्तैः 'प्रवेदितः' कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनं ध्वजीकृत्य प्रकाशितः, इत्यनया दिशा अन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवमुत्पादयितुमार्यैःप्रवेदित इत्युक्तम् अस्मिश्चार्यप्रवेदिते मार्गे प्रयत्नवता भाव्यमिति, आह च - ' जहेल्थ' इत्यादि, लब्ध्वा कर्म्मभूमि मोक्षपादपबीजभूतां च बोधिं सर्वसंवरचारित्रं च प्राप्य तथा विधेयं यथा 'कुशलो' विदितवेद्यः 'अत्र ' अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कम्मैणा नोपलिम्पयेत् इति । एवं चोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत यत्स्वयं प्रतिज्ञातं तदन्त्योच्छ्वासं यावद्विधेयमिति, उक्तं च - " लज्जां गुणौघजननीं जननीमिवार्या मत्यन्तशुद्धहृदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्य स्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १ ॥” इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवोमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अभावीति ॥ परिग्रहादात्मानमपसर्पयेदित्युक्तं तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः तेषां चोच्छेदोऽसुकरो, यत आह
कामा दुरतिकमा, जीवियं हुप्पडिवूहगं, कामकामो खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पड़ || सू० ९२ ॥
कामा द्विविधाः - इच्छाकामा मदनकामाश्च तत्रेच्छाकामा मोहनीयमेदहास्यरत्युद्भवाः, मदनकामा अपि मोहनीय
1
॥ २६७ ॥