SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ २६६ ॥ तुरगवत् मूच्र्छा न कुर्यात् ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति तथाहिआत्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठौ, ताभ्यां च कर्म्मबन्धः, ततः कथं न परिग्रहो धम्र्मोपकरणम् १, उक्तं च- 'ममाहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशः सुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १ ॥" नैष दोषः, न हि धर्मोपकरणे ममेदमिति एवं साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागम:- " अवि अपणोऽवि देहंमि, नायरंति ममाइउ", यदिह परिगृहीतं कर्म्मबन्धायोपकन्पते स परिग्रहो, यत्तु पुनः कर्म्मनिर्जरणार्थं प्रभवति तत्परिग्रह एव न भवतीति । आह च अन्ना णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोवलिंपिज्जासि तिबेमि ॥ ९१ ॥ मति वाक्यालङ्कारे, 'अन्यथे' त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत्, यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः तथाहि अयमस्याशयः - आचार्य सत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धम्र्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च साध्यं यथा कथचित् स्वल्पं कार्यं महच न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥ १ ॥" अत्र चाहता मासैर्बोटिकैः सह महान्त्रिवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह - 'एस मग्गे ' लोकवि. अ. २ | उद्देशक: ५ ॥ २६६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy