SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ RX .२६५॥ 'लब्धे प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौषधादिके 'अनगारः' भिक्षुः 'मात्रां जानीयात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति | तथाभृतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह-'से जहेयं' इत्यादि, तद्यथा-इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवता-ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया मदेवमनुजायां पर्षदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं' प्रतिपादितं, सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्-लाभो'त्ति इत्यादि, लाभो वनाहारादेर्मम संवृत्त इत्यतोऽहो ! अहं लब्धिमानित्येवं मदं न विदध्यात् । न च तदभावे शोकाभिभूतो विमनस्को भृयादिति, आह च-'अलाभो'त्ति इत्यादि, अलाभे सति शोकं न कुर्यात् , कथं ?-धिमा मन्दभाग्यऽहं येन सर्वदानोद्यतादपि दातुर्न लमेऽहमिति, अपि तु तयोर्लामालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च-"लभ्यते लभ्यते साधु, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥१॥" इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेषणाः प्रतिपादिनाः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह-'बहुंपि'त्यादि, 'बहुंपि' बह्वपि लब्ध्वा 'न निहे' त्ति न स्थापयेत्-न सन्निधिं कुर्यात् , स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद् , अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादिति, आह–'परि' इत्यादि, परिगृह्यत इति परिग्रहो-धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद्-अपसर्पयेद् , अथवा संयमोपकरणमपि मूर्छया परिग्रहो भवति, 'मूर्छा परिग्रह' (तत्त्वा० अ०७ सू० १२) इतिवचनात् , तत आत्मानं परिग्रहादपसप्पयन्नुपकरणे .... . ॥२६५०
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy