SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ लोकवि.अ.२ बीआचाराङ्गवृत्तिः (शोलाङ्का) उद्देशकः ५ ॥२६४॥ मार्गे संयमानुष्ठाने वा मिक्षाद्यर्थ वा, एतदुक्तं भवति-रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञो यावद्विधा छिन्दन किं कुर्यादित्याह-'वत्थं पडिग्गह' इत्यादि यावत् एएसु चेव जाणेन्जा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसनिचयकरणोद्यतेषु जानीयात्र-शुद्धाशुद्धतया परिच्छिन्द्यात् , परिच्छेद- श्चैवमात्मक:-शुद्धं गृह्णीयादशुद्धं परिहरेदितियावत् , किं तद्विजानीयात् ?-वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्ग्रह-पात्रम्, एतद्ग्रहणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूढा, तथा अवगृह्यत इत्यवग्रहः, स च पश्चधा-देवेन्द्रावग्रहः १.राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिका वग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्यढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कम्प्यते, तथा कटासनं, कटग्रहणेन संस्तारको गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरमिति, आस्यते-स्थीयते अस्मिन्निति वाऽऽसनं-शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियं टेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः । एतेषु च स्वारम्मप्रवृत्तेषु गृहस्थेषु परिव्रजन् यावद्धाभं गृह्णीयात कश्चिन्नियमोऽप्यस्तीत्याह लडे आहारे अणगारो मायं जाणिज्जा, सेजहेयं भगवया पवेईयं, लाभुत्तिन मजिजा, अलाभुत्ति न सोइज्जा, बटुंपि लड्न निहे, परिग्गहाओ अप्पाणं अवसचिना ॥सू०९०॥ ॥२६४॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy