________________
श्रीआचाराजवृत्तिः (शीलाङ्का. ॥१४॥
अध्ययन उद्देशक १
मागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्त', किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः ? येषामनन्तभागे व्रतानि वर्तेरनिति । स्यान्मतिः, अन्ये केवल(लि)- गम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपाबहुत्वम् . एवमपि ज्ञानज्ञेययोस्तुल्यत्वा- | तुल्या पव नानन्तगुणा इति । अत्राचार्य आहुा आहुः)-याऽसौ संयमस्थानश्रेणिनिरूपिता सा पर्वा चारित्रपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायानतभागवृत्तित्वमित्यदोषः । इदानीं सारद्वार, कः कस्य सार इत्याहअंगाणं किं सारो?आयारो, तस्स हवह किं सारो । अणओगत्थो सारो तस्सवि य परूवणा सारो॥६॥
स्पष्टा, केवलमनुयोगार्थो-व्याख्यानुभूतोऽर्थम्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च-- सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाचाहं जिणा चिंति ॥१७॥
स्पष्टैव । इदानीं श्रतस्कन्धपत्यो मादिनिक्षेपादिकं पूर्ववद्विधेयं, मावेन चेहाधिकार, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशादी निक्षप्तव्यावित्याह-- बंभम्मी य चउक्कं ठवणाए होड बंभणप्पत्ती। सत्तण्हं वण्णाण नवण्हं वण्णंतराणं च ॥१८॥
तत्र ब्रह्म नामादिचतुर्दा, तत्र नामब्रह्म ब्रह्म त्यभिधानम् , असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टयज्ञोपवीताद्याकृतिमृल्लेप्यादी द्रव्ये, अथवा स्थापनायां व्याख्यायमानायर्या ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानां