SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (चीलाङ्का.) ॥२५८ ॥ चारित्राहः, आर्या प्रज्ञा यस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थी, आय-प्रगुणं न्यायोपपन्नं पश्यति तच्छील लोकवि.अ. श्चेत्यार्यदी पृथकप्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तेरलुगित्ययंसन्धिः-यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः उद्देशकः ५ कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपत्ना अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेती, यस्माद्यथाकालानुष्ठानविधायी तस्मादसावेव परमार्थ पश्यतीत्याह-'अदक्खु'ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थ:-यो धार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीनापर इति, पाठान्तर' वा अयं संधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधु 'सन्धि' कर्तव्यकालम् 'अद्राक्षीद्' दृष्टवान् , एतदुक्तं भवति-यः परस्परावाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थ ज्ञातवानिति, अथवा भावसन्धिःज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावधस्य परिहारः कर्तव्य इत्यत आह-से णाईए' इत्यादि, 'स' मिचुस्तद्वाऽकल्प्यं 'नाददीत' न गृह्णीयानाप्यपरमादापयेत्-ग्राहयेत, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालं सधूमं वा नाद्यात्-न भक्षयेनापरमादयेददन्तं वा न समनुजानीयादिति, आह--'सव्वामगंध' इत्यादि, आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्व च तदामगन्धं ॥१५८D च सर्वामगन्धं, सर्वशब्दः प्रकारकात्स्न्येऽत्र गृह्यते न द्रव्यकात्स्न्ये, आमम्-अपरिशुद्धं, गन्धग्रहणेन तु पूतिगृह्यते,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy