________________
.२५६॥
ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनवोपादानाकिमर्थ मेदेनोपादानमिति, सत्यम, अशुद्धसामान्याद्गृह्यते, किं तु पूतिग्रहणेनेहाधाकर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थ पुनरुपादानं, ततश्चायमर्थः- 26 गन्धग्रहणेनाधाकर्म १ औद्देशिकत्रिकं २ पूतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ श्चैते षडुद्गमदोषा अविशुद्धकोटथन्तर्गता गृहीताः, शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्याभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्ध पूति वा भवति तत्सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः-समन्ताद्गच्छेत संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यन्पसचानां विशुद्धकोटथालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिनिषेधिषुराह--
अविस्समाणे कयविक्कयेसु, से ण किणे न किणावए किणंतं न समणुजाणइ, से भिक्खू कालन्ने पालन्ने मायने खेयन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं
अममायमाणे कालाणट्ठाई अपडिण्णे । सू०८८॥ क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः, कीदृक्षश्च तयोरदृश्यमानो भवति ?, यतस्तयोनिमित्तभूतद्रव्याभावादकिञ्चनोऽथवा क्रयविक्रययोरदिश्यमान:-अनपदिश्यमानः, कश्च तयोरनपदिश्यमानो भवति ?, यः क्रीतकृतापरिभोगी भवतीति, आह च-'से ण किणे इत्यादि, 'स'मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण