________________
kal त्यादेशः-प्राघूर्णकस्तदर्थ कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, तथा 'पुढो पहेणाए' इत्यादि, पृथक् पृथक .२५७॥
पुत्रादिभ्यः प्रहेणकार्थ तथा 'सामासाए'त्ति श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थं, तथा 'पायरासाए'त्ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह-सन्निहि' इत्यादि, सम्यग्निधीयत इति सन्निधिः-विनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग निश्चयेन चीयत इति मनिचयः-अविनाशिद्रव्याणां अभयासितामृद्वीकादीनां सङ्ग्रहः, सन्निधिश्च सनिचयश्च सन्निधिसन्निचयं. प्राकृतशैल्या पुजिङ्गता, अथवा सन्निधेः सन्निचयः सन्निधिसन्निचयः, स च परिग्रहसंज्ञोदयादाजीविकाभ्यासाद्वा धनधान्यहिरण्यादिना क्रियत इति । स च किमर्थमित्याह-'इह' इत्यादि, 'इहे'ति मनुष्यलोके 'एकेषा मिहलोकेऽकृतपरमार्थबुद्धीना 'मानवानां' मनुष्याणां 'भोजनाय' उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थ कर्मसमारम्भप्रवृत्ते लोके पृथकप्रहेणकाय श्यामाशाय प्रातराशाय केषाश्चिमानवानां भोजनार्थ सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यमित्याह--
समुट्ठिए अणगारे भारिए आरियपन्ने आरियदंसी अयंसंघित्ति अदक्खु (अयं संधिमदक्खु), से नाईए नाइयावए न समणुजाणई, सव्वामगंधं परिन्नाय निरामगंधो
परिव्वए ॥ सू० ८७॥ सम्यक सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं-गृहमस्येत्यनगारः, पुत्रदुहितस्नुषाज्ञातिधाच्यादिरहित इत्यर्थः, सोऽनगार: आराद्यातः सर्वहेयधर्मेभ्यः इत्यार्य:
२५७.