________________
Il
श्रीआचारावृत्तिः (शीलाका.)
॥ २५६ ॥
कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणां वा, समारम्भा इति मध्य
लोकवि.अ. ग्रहणाबहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः-शरीरकलवाद्यर्थ संरम्भसमारम्भारम्भाः 'क्रियन्ते' अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवागव्यापारजनित- उद्देशकः ५ परितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणो वाअष्टप्रकारस्य समारम्भाः-उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुर्थ्यर्थे षष्ठी, साऽपि तादयें, कः पुनरसौ लोको ? यदर्थ संरम्भसमारम्भारम्भाः क्रियन्त इन्याह-'तंजहा-अप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेती, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधु तिमन्वेषयेत् , यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा-अप्पणो से' इत्यादि, 'तद्यथेत्युपप्रदर्शनार्थों, नोक्तमात्रमेवान्यदप्येवंजातीयकं मित्रादिकं द्रष्टव्यं, 'से'तस्यारम्भारिमोर्य आत्मा-शरीर (तस्मै अर्थ) तदर्थ कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्माः क्रियन्त इति प्रागभिहितं, न च शरीरं लोको भवति, नैतदस्ति, यतः परमार्थदृशा ज्ञानदशनचारित्रात्मकमात्मतत्वं विहायान्यत्सर्व शरीराद्यपि पाराक्यमेव, तथाहि-बाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पश्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितभ्यः स्नुषा:-वध्वस्ताभ्यो ज्ञातयः-पूर्वापरसम्बद्धाः स्वजनाः तेभ्यो
au२५६. धात्रीभ्यो राजम्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनो यस्मिन्त्रागते तदातिथेयाये
300-33000