SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ %%% .२५५॥ m ॥ अथ द्वितीयाध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थ विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषण मुमुक्षुणोत्क्षिप्तपश्चमहाव्रतमारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थ देहपरिपालनाय लोकनिश्रया विहर्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि , तदभावे धर्मश्चेति, उक्तं हि-"धम चरतः साधोलोंके निश्रापदानि पश्चापि । राजा गृहपतिरपरः षटकाया गणशरीरे च ॥१॥" साधनानि च वस्त्रपात्रानासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, स च लोकादन्वेष्टव्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्र कलत्राद्यर्थ आरम्भ प्रवृतः, तत्र साधुना संयमदेहनिमित्तं वृतिरन्वेषणीयेति दर्शयति जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कज्जंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाण नाईणं धाईण राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आपसाए पुढोपहेणाए सामासाए, पायरासाए, संनिहिसंनिचओ कजइ, इहमेगेसिं माणवाणं भोयणाए ॥ सू० ८६ ॥ 'यैः' अविदितवेद्यैः 'इद'मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः नानाप्रकारम्वरूपैः 'शस्त्रैः' प्राण्युप- घातकारिभिर्द्रव्यभावमेदभिन्नः 'लोकाय' शरीरपुत्रदुहितस्नुषाज्ञात्याद्यर्थ कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां XXIMA ॥ २५५ ।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy