________________
भीआचा(ङ्गवृत्तिः (शीलाङ्का.)
। २५४ ।।
न निन्देद्दातारं दत्तं वा, तथाहि - कतिचित्सिकथानयने ब्रवीति - सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वृत्तच्छात्रवन्न विदध्यात् । किं च- 'पडिसेहिओ' इत्यादि, 'प्रतिषिद्धः' अदित्सितस्तस्मादेव प्रदेशात् 'प्ररिणमेत्' निवर्त्तेत, क्षणमपि न तिष्ठेन दौर्मनस्यं विदध्यान रुण्टन्नपगच्छेत् न तां सीमन्तिनीमपवदेद् धिक्ते गृहवासमिति, उक्तं च- "दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमह ! | पीयं चियते पाणिययं वरि तुह नाम न दंसणं ॥ १ ॥" इत्यादि पठ्यते च- 'पडिलाभिओ परिणमेज्जा' प्रतिलाभितःप्राप्त भिक्षादिलाभः सन् परिणमेत्, नाच्चावचालापैः तत्रैव संस्तवं विदध्याद्, वैतालिकवदातारं नोत्प्रासयेदिति । उपसंहरन्नाह - ' एवं ' इत्यादि, 'एतत्' प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्वोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनंमुनिभिमुमुक्षुभिराचरितं त्वमप्यवाप्ताने कभव कोटिदुरापसंयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेतिविनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ प्रवीमि पूर्ववत् ॥ लोकविजयाध्ययन चतुर्थोद्देशकटीका समाप्ता ॥ २-४ ॥
18:1
१ दृष्टाऽसि उदारमते ! अनुभूताऽसि उदारमते !। पीतमेव ते पानीय वरं तब नाम न दर्शनम् ।। १ ।
लोकवि. अ. २ उद्देशकः ४
॥ २५४ ॥