________________
.२५३॥
आयाणाए, न मे देइन कुप्पिज्जा थोवं लडन खिसए, पडिसेहिओ (पडिलामिओ)
परिणमिन्ना, एयं मोणं समणुवासिज्जासि तिबेमि ॥सू.८५॥ इति चतुर्थोद्देशकः ॥२-४॥ 'एतत् प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने ! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तकि कुर्यादित्याह-'नाइवाएज्ज' इत्यादि, यतो भोगाभिलपणं महद्भयमतस्तदर्थ 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वात्र प्रतारयेत् कश्चनेत्याधप्यायोज्यं । भोगनिरीहः प्राणातिपातादिवतारूढच के गुणमवाप्नोतीत्याह-'एस' इत्यादि, 'एष' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतमागरोहणोनामितस्कन्धो वीरः कर्मविदारणात् 'प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह'जे' इत्यादि यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै ?-'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्व. तत्वमशेषावारककर्मक्षयाविभूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कवन सिकताकवलचर्वणदेशीयं कचिदलाभादी न खेदमुपयातीति, आह-'न मे' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्यपस्थितेऽपि दानावसरे न ददातीतिकृत्वा 'न कुप्येत्' न क्रोधवशगो भूयाद, भावनीयं च-ममैवेषा कर्मपरिणतिथिलामोदयोऽयम, अनेन चालाभेन कर्मक्षयायोधतस्य मे तत्क्षपणसमर्थ तपो भावीति न किञ्चित्तूयते. अथापि कथश्चित स्तोकं प्रान्तं वा लमेत् तदपि न निन्देदित्याह-'थोवं' इत्यादि, 'स्तोकम्'. अपर्याप्तं 'लड' लब्धवा
॥ २५३.