________________
। १५१॥
॥
नीयोदयाद्भवन्ति , मोहनीयस्य च तद्भेदकामानां च खियो गरीयः कारणमिति दर्शयनि-धोभि' इत्यादि, स्त्रीभिःअङ्गनाभिक्षेपादिविभ्रमरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत , न केवलं स्वतो विनष्टाः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह-'ते भो!' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो! इत्यामन्त्रणे एतद्वदन्तियथैतानि-च्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्तन्ते, एतैश्च विना शरीगस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह-'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भवति-शारीरमानसासातवेदनीयोदयाय जायते, किं च-'मोहाए' मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा ‘माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थ, पुनरपि 'नरगतिरिक्वाए' ततोऽपि नम्कादुद्धृत्य तिरश्च्येतत्प्रभवति, तिर्यग्योन्यथं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासु तासु योनिषु पर्यटनात्महितं न जानातीत्याह-'सययं' इत्यादि, सततम्-अनवरतं दुःखाभिभूतो मूढो 'धर्म' क्षान्त्यादिलक्षणं दुर्गतिप्रसूतिनिषेधकं न जानाति' न वेत्ति । एतच्च तीर्थ कृदाहेति दर्शयति-'उदाहु' इत्यादि, उत्प्राबल्येनाह उदाह-उक्तवान् , कोऽसौ ?-वीरः-अपगतसंसारभयस्तीर्थकुदित्यर्थः, किमुक्तवान् ?, तदेव पूर्वोक्तं वाचा दर्शयति-'अप्रमादः' कर्तव्यः, क्व ?-'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोह कारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च-'अलम्' इत्यादि, 'अलं' पर्याप्तं, कस्य ?-'कुशलस्य' निपुणस्य सूक्ष्मक्षिणः, केनालं?
॥ २५१।