________________
आचानिवृत्तिः गोलाका.) २५०॥
लोक. अ.वि २ उद्देशकः ४
आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सल्लमाहटु, जेण सिया तेण नो सिया, इणमेव नावबुझंति जे जणा मोहपाउडा, थीमि लोए पव्वहिए, ते भो। वयंति एयाई आययणाई', से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संनि
मरणं संपेहाए भेउरधम्म संपेहाए, नालं पास अलं ते एएहिं । सू० ८४॥ . 'आशा' भोगाकाङ्क्षा, चः समुच्चये, छन्दनं छन्दा-परानुवृत्त्या भोगाभिप्रायस्तं च, चशन्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ 'वेविश्व' पृथक्कुरु त्यज 'धीर ! धी:-बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागेच दुःखमेव केवलं न तत्प्राप्तिरिति, आह च-'तुमं चेव' इत्यादि, विनेय उपदेशगोचरापन आत्मा वा उपदिश्यते-त्वमेव तद्धोगाशादिक शल्यमाहृत्य-स्वीकृत्य परमशुभमादत्से, न तु पुनरुपमोगं, यतो भोगोपभोगो यैरेवार्थाद्यपायर्भवति तैरेव न भवतीत्याह-'जेण सिआ तेण नो सिया' येनेवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात कर्मपरिणतेन स्याद, अथवा येन केनचिद्धेतुना कर्मवन्धः स्यात्तन्न कुर्यात , तत्र न वर्ततेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः 'स्याद् भवेत्तेनैव तथाभूतपरिणामवशाल स्यादिति । एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह-'इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ?-ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यान्वोदयेन वा प्रावृताः-छादितास्तत्वविपर्यस्तमतयो मोह
॥२५०॥