________________
.२४६॥
महानिर्विघ्नबीजस्त्वया । रोगैरङ्कुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरघोगामिभिः ॥ १॥ पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणां । संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः । ॥२॥" अपि च-भोगाना प्रधान कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह- .
तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्ठा, भोयणाए, तओ से एगया विपरिसिह संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, नस्सह वा से विणस्सइ वा से, अगारडाहेण वा से उज्झइ इय, से परस्स अट्ठाए कूराणि कम्माणि
वाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ ॥ सू० ८३॥ त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बही वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च मोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि से तस्यैकदा दायादा विभजन्ते. अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगाग्दाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यासमिति नेह प्रतायते ॥ तदेवं दुःखविपाकान् मोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह
२४
॥