________________
लोकवि.अ.
श्रीआचाराजवृत्तिः (शीलाका.
उद्दशकः ४
॥२४८॥a
स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ म दौमनस्यं भावनीयं, न भोगाः शोचनीया इति, आह च-'भोगा में' इत्यादि, भोगा:-शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचन्ति-कथमस्यामप्यवस्थायां वयं भोगान् भुक्ष्महे , एवंभूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदृक्षश्चाध्यवसायः केषाश्चिदेव भवतीत्याह-इहमेगेसिं' इत्यादि, 'इह' संसारे एकेषामनवगतविषयविपाकानां ब्रह्मदत्तादीनां मानवानामेवंभूतोऽध्यवसायो भवति, न सर्वेषां, सनत्कुमारादिना व्यभिचारात , तथाहि-ब्रह्मदत्तो मारणान्तिकरोगवेदनामिभूतः सन्तापातिशयात् स्पृशन्ती प्रणयिनीमिव विश्वासभूमी मृच्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिनिरूपितो नियत्या आदित्सितो देवेन अन्तिकेऽन्त्योच्छवासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्तमानो विग्लो वाचि विह्वलो वपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयाद् भोगांश्चिकाङ्क्षिषुः पार्योपविष्टी भार्यामनवरतवेदनांवेशविगलदUरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनामिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाश्चित, न पुनरन्येषां महापुरुषाणामुदारसत्वानाम् आत्मनोऽन्यच्छरीरमित्येवमवगततच्चाना सनत्कुमारादीनामिष यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति, उक्तं च-"उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्तति
॥२४८॥