________________
श्रीआचा राङ्गवृत्तिः
(शीलाङ्का.) ॥ २४४ ॥
1
भावोऽष्टप्रकारं कर्म्म संसारो वा तेन हि प्राण्यनन्तमपि कालमुह्यते, तम् - ओघं ज्ञानदर्शनचारित्रवोहित्थस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश् खित्त्वान्मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियान विकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति, आह च-"नो य ओहं तरित्तए' 'न च' नैवोघं भावौघं तरितु ं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः तथा 'अनीरंगमा' इत्यादि, तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खश्प्रत्ययादिकं न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापन्नान् कुतीर्थिकादीन् दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा 'अपारंगमा' इत्यादि, पारः-तटः परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एल' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थ समासोऽयं, तेनायमर्थः - पारगमनाय ते न भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम्, अथ तीर पारतोः को विशेष इति उच्यते, तीरं मोहनीयतयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात् - कथमोघतारी कृतीर्थादिको न भवति, तीरपारगामी चेत्याह - 'आयाणिज्जं' इत्यादि, आदीयन्ते - गृह्यन्ते सर्वभावा अनेनेत्यादानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति, यदि वा - आदा
अथवा
• लोकवि. अ. ५ उद्देशकः ३
॥ २४४ ॥