________________
नीयम्-आदातव्यं मोगाङ्ग द्विपदचतुष्पदधनधान्यहिरण्यादि तदादाय-गृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं-कर्मादाय, किंभूतो भवतीत्याह-तस्मिन्' ज्ञानादिमये मोक्षमाग्गें सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति-नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयनि-'वितहं' इत्यादि, वितथम्-असद्भुतं दुर्गतिहेतु तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः-अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽभ्युपपनो भवतीतियावत् , अथवा वितथमिति आहआदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयतीत्यर्थः । अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विवत्त इत्याह -
उद्देसो पासगम्स नत्थि, पाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव
आव अणुपरियहइ तिमि ॥ सू० ८१॥ लोकविजये तृतोयोद्देशकः ॥२-३ ॥ उद्दिश्यते इत्युद्देशा-उपदेशः सदसत्कर्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो-नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भवतीत्याह-बाले' इत्यादि, बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसगा निहन्यत इति ।