________________
२४३॥
भोगायेत्याह--'तंपि से' इत्यादि, तदपि समुद्रोचरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपान्जितं सत् 'सेतस्यार्थोपार्जनोपायक्लेशकारिणः 'एकदा'भाग्यक्षये 'दायादा' पिपिण्डोदकदानयोग्याः विमजन्ते' विलुम्पन्ति, 'अदत्तहारो वा' दम्युर्वा अपहति, राजानो वा 'विलम्पन्ति' अवच्छिन्दन्ति 'नश्यति वा' स्वत एवाटवीतः 'से'तस्य 'विनश्यति वा' जीर्णभावापत्तेः 'अगारदाहेन वा' गृहदाहेन वा दह्यते, किन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति-'इति' एवं बहुभिः प्रकार सपाजितोऽप्यों नाशमपैति, नेवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योत्पादयिता परस्मै-अन्यस्मै अर्थायप्रयोजनाय अन्यप्रयोजनकृते 'कराणि' गलकर्तनादीनि 'कर्माणि' अनुष्ठानानि 'बाल:' अज्ञः 'प्रकुर्वाण: विदधानः 'तेन' कर्मविपाकापादितेन 'दुःखेन' असातोदयेन (सं)मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगतसदसद्विवेकस्वात्कार्यमकार्य मन्यते व्यत्ययं चेति, उक्तं च-"रागद्वेषाभिभूतत्वात्कार्याकार्यपराङ मुखः।एष मूढ इति ज्ञेयो. विपरीतविधायकः॥१॥" तदेवं मौढयान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्च मया न स्वमनीषिकयोच्यते सुधर्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तहीदमित्यत आह–'मुणिणा' इत्यादि मनुते जगतस्त्रिकालावस्थामिति मुनि:-तीर्थकत्वेन 'एतदु' असकदुच्चेोत्रभवनादिकं प्रकर्षणादौ वा सर्वस्वभाषानुगामिन्या वाचा वेदितं-कथित वक्ष्यमाणं च प्रवेदित, किं तदित्याह-'अणोह इत्यादि, ओपो द्विधा-द्रव्यभावभेदात, द्रव्योपो नदीपूरादिको
॥२४३॥