________________
श्रीआचा
राङ्गवृत्तिः (शीलाङ्का.)
॥ २४२ ॥
ततः किमित्यत आह- 'तं परिगिज्झ' तद्-असंयम जीवितं 'परिगृह्य' आश्रित्य किं कुर्वन्तीत्याह – 'दुपयं' इत्यादि, 'द्विपदं ' दासीकर्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, ततः किमित्यत आह- 'संसिंचिया णं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण 'संसिध्य' अर्थनिचयं संबद्ध 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदन्या परमार्थचिन्तायां बह्वयपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्राअर्थान्पता 'भवति' सत्तां बिभर्त्ति किंभूता ?, सा सूत्रेणैव कथयति-- अल्पा वा बही वा अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यन्पा सर्वापि बही 'स' इत्यर्थवान 'तत्र' तस्मिन्नर्थे 'गुड' अभ्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जन क्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम् उक्तं च - " कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खा (स्वा) दन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ १ ॥" इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह--‘भोयणाए' भोजनम् - उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, क्रियावतच किं भवतीत्याह'तओ से' इत्यादि, ततः 'से' तस्यावलगनादिकाः क्रियाः कुर्वतः 'एकदा लाभान्तगयकर्म्मक्षयोपशमे 'विविध' नानाप्रकारं 'परिशिष्टं' प्रभूतत्वाद्भुक्तोद्धरितं 'सम्भूतं' सम्यकपरिपालनाय भूतं संवृत्तं किं तत् १, महच्च तत्परभोगाङ्गत्वादुपकरणं च महोपकरणं-द्रव्यनिचय इत्यर्थः, स कदाचिन्नाभोदये भवति, असावप्यन्तरायोदयान्न तस्योप
लोकवि. अ. २ • उद्देशकः ३
॥ २४२ ॥