________________
०२४१॥
सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥१॥" तदेवं सर्वकषत्वं मृत्योरखधार्याहिंसादिषु दत्तावधानेन भाव्यं, किमिति, यतः-सव्वे पाणा पियाउया' प्राणशब्देनात्राभेदोपचारात् तद्वन्त एवं गृह्यन्ते, सर्वे प्राणिनोal जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धय॑भिचारो, न हि ते प्रियायुषस्तदभावात् , नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणार्थमिति यत्किश्चिदेतत , पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-सुहसाया दुक्खपडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादाः-सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम्-असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूला:-दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं-दुःखकारणं तत् अन्त्यप्रियवधाः, तथा 'पियजोविणो' प्रियं-दयितं जीवितम-आयष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितकामाःदीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च--"'रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई । मग्गइ सरोरमहणो रोगी जीए चिय कयत्थो॥॥" तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयितमित्यतो भयो । भूयस्तदेवोपदिश्यत इत्याह--'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रिय' दयितं, यद्येवं १ रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति । मार्गयति शरीरमधनो रोगी जोवित एव कृतार्थः ॥ १॥
॥२४१