________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ २४० ॥
आयाय तंमि ठाणे न चिह्न, वितहं पप्पsखेयन्ने तंमि ठाणंमि चिट्ठह ॥ सू० ८० ॥
'इणमेव' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा 'नावकाङ्क्षति' नाभिलपन्ति, ये जना 'ध्रुवचारिणो' ध्रुवो - मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितु शीलं येषां ते तथा, धृतचारिणो वा धुनातीति धृतं चारित्रं तच्चारिण इति । किं च- 'जाई' इत्यादि, जातिश्व मरणं च समाहारद्वन्द्वः तत् 'परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत्, क १ – 'सङ्क्रमणे' सङ्क्रम्यतेऽनेनेति सङ्क्रमणं - चारित्रं तत्र 'दृढो' विश्रोतसिकार - हितः परीषहोपसग्गैः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् प्रशङ्क मनो यस्यासावशङ्कमनाः- तपोदमनियम निष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्त्तेत यतस्तद्वान् राजराजादीनां पूजाप्रशंसार्हो भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीय सोऽसत्यपि परलोके किश्चित् श्रूयते, उक्तं च — 'संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ १ ॥" इत्यादि । तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यं न चैतद्भावनीयं यथा - परुत्परि वृद्धावस्थायां वा धर्मं करिष्यामीति यतः - 'नत्थि' इत्यादि 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनवसर इतियावत् तथाहि सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मपावकान्तर्वर्त्ती जन्तुजंतुगोलक इव न विलीयेत इति उक्तं च - " शिशुमशिशु कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीर मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रकाशमवलीनमचेतनमथ सचेतनं निशि दिवसेऽपि
लोकवि. अ. २ रदेशकः ३
॥ २४० ॥