________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
।। २३८ ।। ।
शब्दायशःपटहहतत्वाद्धतः अभिमानोत्पादिता ने कभव कोटि नीचैर्गोत्रोदयादुपहतः, मृढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्व मरणं च समाहारद्वन्द्वस्तद् 'अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्भरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्त्तमानः, आवोनीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमितिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति आह च- 'जीवितम्' आयुष्कानुपरमलक्षणमसंयमजीवितं वा 'पृथग' इति प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् 'इहे 'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां तथाहि - दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपपातकारिणीः कुर्वते, तथा 'क्षेत्रं' शालिक्षेत्रादि 'वास्तु' धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिकं प्रेयो भवति, किं च- 'आरक्तम' ईषद्रक्तं वस्त्रादि 'विरक्त' विगतरागं विविधरागं वा 'मणिः' इति रत्नवैडूर्येन्द्रनीलादि 'कुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य 'तत्रैव' क्षेत्र वास्त्वा रक्तविरक्तवस्त्र पणिकुण्डलभ्यादौ 'रक्ता' गृद्धा अभ्युपपन्ना मूढा विपर्यासमुपयान्ति वदन्ति चनात्र 'तपो वा' अनशनादिलक्षणं 'दमो वा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, तथाहि - तपोनियमोपपेतस्यापि कायक्लेशमोगादिवश्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्युग्राहितस्योल्लापः, किं च दृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैक पुरुषार्थबुद्धिः सम्पूर्ण यथावसरसम्पादित विषयोपभोगं 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् 'लालप्यमानः ' मोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा - अत्र तपो दमो नियमो वा फलवान्न दृश्यत इत्येवमर्थं ब्रुवन् मूढः
लोकवि. अ. २
उद्देशकः ३
॥ २३८ ॥