________________
.२३७॥
| 'वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णलक्षणं 'शषलत्वं' श्वित्रलक्षणं सहजं पश्चाद्भावि वा कर्मवशगो भूरीशो दुःखराशिदेशीय परिसंवेदयते । किं च-सह 'प्रमादेन' विषय क्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन वा | 'अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनी: संदधाति संधत्ते चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तर कालं गच्छतीत्यर्थः, तासु च नानाप्रकागसु योनिषु । 'विरूपरूपान्' नानाप्रकारान् 'स्पर्शान्' दुःखानुभवान् परिसंवेदयते, अनुभवतीत्यर्थः॥ तदेवमुच्चोत्रोत्थापितमानो| पहतचेता नीचे गोत्रविहितदीनभावो वाऽन्धबधिरभूयं वा गतः समावबुध्यते कर्तव्यं न जानाति कर्मविपाकं नावगच्छति | संसारापसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनवगतनच्चो मूढस्तत्रैवोच्चैोत्रादिके विपर्यासमुपैति, आह च
से अबुज्झमाणे हओवहए जाईमरणं अणपरियहमाणे, जीवियं पुढो पियं इहमेगेसि माणवाणं खित्तवत्थुममायमाणाणं, आरत्त विरत्तं मणिकुडल सह हिरण्णण इथि. याओ परिगिज्मति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ,
संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेइ ॥ सू० ७९॥ 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कम्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैगोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमदभत