________________
बीआचाराङ्गवृत्तिः (शीलाङ्का.)
लोक.अ.वि २ उद्देशकः ३
॥ २३६॥
तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः, उक्तं - "एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिदितीयम । एतदद्वयं भुवि न यस्य सं तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ॥१॥" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः, त एवानन्धा न द्रव्यतो न च | भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च-"जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः। नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः।।।। लोकदयव्यसनवहि विदी. पिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोदिजेत भयकृजननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धग त ? ॥ २ ॥" एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकविकलत्वादैहिकामुध्मिकेष्टफलक्रियानुष्ठानशून्यता बिभर्ति इति, उक्तं च-"धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रतिश्रवणसंव्यवहारपाद्यः। किं जीवतीह बधिरो भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलता प्रयान्ति ? ॥१॥ स्वकलत्रपालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मतकाकृतिधरस्य ? ॥२॥" एवं मूकत्वमप्येकान्तेन दुःखावह परिसंवेदयते, उक्तं च-"दुःखकरमकीर्तिकरं मूकत्वं सवलोकपरिभूतम् । प्रत्यादेशं मूढाः कम्मकृतं किं न पश्यन्ति ? ॥१॥" तथा काणत्वमप्येवंरूपमिति, आह च-"काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकर्मलिखितोऽपि किमु स्वरूपः॥१॥" एवं 'कुण्टत्वं' पाणि वक्रत्वादिकं 'कुजत्वं' वामनलक्षणं
॥ २३६॥