________________
संधायह विरूवरूवे फासे परिसंवेयह ॥ सू० ७॥ अथवा भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यत्तेषामप्रियं तत्र विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति'पुरिसेणं खल दुक्खुव्वेअसुहेसए" 'पुरुषो' जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणे दुःखात उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषका, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वगश्चासौ सुखैषकश्च दुःखोद्वेगसुखैषकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनि जलपवनानलवनस्पतिसूक्ष्मवादरविकलपञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीषूणां सुखलिमूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थ चोत्तरगुणा अध्यनु. शीलनीयाः, तदर्थमुपदिश्यते-'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टु शीलं यस्येत्येतदनुदर्शी भृतेषु सातं जानीहीति सण्टङ्कः, तत्र 'समिति'रिति 'इण गता' वित्यस्मात्सम्पूर्वात क्तिनन्ताद्भवति, सा च पञ्चधा, तद्यथा-इर्याभाषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयवनपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तवृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भुतसातादिकमनुपश्यति, अथवा यदनुदय॑सौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएइ संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतो भावतश्च,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ २३५०