________________
॥ ११ ॥
तत्प्रतिपादकश्चाचारग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः साऽपि चतुर्द्धा व्यतिरिक्ता मनुष्यादिजातिः भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमा मोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टको द्वेष्टनम शेषमेतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्त्तन्त इत्येकार्थिकाः शक्रपुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चिनिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्घट्टनम् उक्तं च- "बंधाणुलोमया खलु सत्यंमि य लाघवं असम्मोहो । संतगुणंदीवणाविय एगगुणा हवंते ॥ १ ॥ ॥७॥ इदानीं प्रवर्त्तनाद्वारं, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आहसव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुव्वोए ॥ ८ ॥ सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावा चारार्थः प्रथमतयाऽभवद्भवति भविष्यति च ततः शेषाङ्गार्थ इति, गणधरा अप्यनयेवानुपूर्व्या सूत्रतया ग्रन्थन्तीति ॥ ८ ॥ इदानीं प्रथमत्वे हेतुमाह -
आयारो अंगाणं पढमं अंगं दुवालसपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह — यतोऽत्र मोक्षोपायः - चरणकरणं प्रतिपाद्यते एष च प्रवचनस्य सारः प्रधानमोक्ष हेतु प्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ॥६॥ इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह -
१ बन्धानुलोमता खलु शास्त्रे च लाघवमसंमोहः । सद्गुणदीपनमपि च एकार्थगुणा भवन्त्येते ॥ १ ॥
***
॥ ११ ॥