SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अध्ययन श्रीआचारामवृत्तिः (शीलाका.) सज्झाओ। झाणं उस्सग्गोवि य अभितरओ तवो होई ॥५॥ वीर्याचारस्त्वनेकध-अणिहियबलविरिओ परकमइ जो जहुत्तमाउत्तो। जुजइ य जहाथामं नायब्बो वीरियायारो॥६॥ एष पश्चविध | आचारः, एतत्प्रतिपादकथायमेव ग्रन्थविशेषो भावाचार, एवं सर्वत्र योज्यम् । इदानीमाचालः, आचान्यतेऽनेनातिनिविहं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भांवाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागाला, आगालनमागाला-समप्रदेशावस्थानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेनिम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः, आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्वो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्चासा, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः; आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पण:, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्तव्यता दृश्यते । इदानीमङ्गम, अज्य(ध)ते-व्यक्तीक्रियते अस्मिन्नित्यङ्ग, नामायेव, तत्र व्यतिरिक्तं शिगेबाह्वादि, भावाङ्गमयमेवाचारः। इदानीमाचीर्णम्-आसेवितं, तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्ण मिहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्ण वान्हीकेषु सक्तवः कोकणेषु पेया, कालाचीर्ण विदं-'सरसो चंदणपंको अग्घह सरसा य गधकासाई । पाडलिसिरीसमल्लिय पियाइं काले निदाहमि ॥ १॥' भावाचार्ण तु ज्ञानादिपञ्चकं, १ सरसश्चन्दनपकोऽर्घति सरसा च गन्धकाषायिकी । पाटलशिरीषमञ्जिकाः प्रियाः काले निदाघे ॥१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy