________________
तथा कि क्व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिः सप्तभिः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः ॥ ६॥ अवयवार्थ तु नियुक्तिकदेवाभिधातुमाह
. आयारो आचालो आगालो आगरो य आसासो।
आयरिसो अंगति य आइण्णाSSजाइ आमोक्खा ॥ ७॥ आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्दा, तत्र शरीरभव्यशरीरतद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसतव्यः-'णामण-धोयण-वासण-सिक्खावण-सुकरणाविरोहोणि । दव्वाणि जाणि लोए । दबायारं वियाणाहि॥१॥' भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाषण्डिकादयः पञ्चरात्रादिक यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिका, तत्र ज्ञानाचारोऽष्टधा, तद्यथा-काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे । वंजणअस्थतदुभए अट्ठविहो णाणमायारो ॥१॥ दर्शनाचारोऽप्यष्टधैव, तद्यथा--'निस्संकियनिक्कंखिय निन्वितिगिच्छा अमूहदिवी य । उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ॥२॥ चारित्राचाराऽप्यष्टव:-'तिन्नेव य गुत्तोओ पंच समिइओ अह मिलियाओ। पवयणमाईया
इमा तासु ठिओ चरणसंपन्नो ॥३॥ तपआचारो द्वादशधा, तद्यथा-'अणसणमूणोयरिया वित्तीसंखेवणं सरसचाओ। कायकिलेसो संलीणया य बज्झो तवो होइ॥४॥ पायच्छित्तं विणओ वेयावच्चं तहेव
१ नामनधावनवासनशिक्षणसुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचार विजानीहि ॥ १॥
॥8
॥