SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पध्ययनं १ उद्दशकः१ श्रीआचा रावृत्तिः (शीलाङ्का.) ॥८॥ चरणदिशावजाणं निक्खेवो चउविहो(कओ) य नायवो। चरणमि छव्विहो खलु सत्तविहो होइ उ दिसाणं ॥३॥ चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिशब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ॥३॥गमादिचतुष्टयं सर्वव्यापोति दर्शयितुमाहजत्थ यजं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं। जत्थविय न जाणिज्जा चउक्कयं निक्खिवे तत्थ ॥४॥ 'यत्र' चरणदिकशब्दादौ यं निक्षेप-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः ॥ ४॥ प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि आयारे अंगमि य पुबुद्दिडो चउक्कनिक्खेवो। नवरं पुण नाणत्तं भावायारंमि तं वोच्छं ॥ ५ ॥ तुलिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते'भावाचारविषय' इति ॥ ५॥ यथप्रातिज्ञातमाह तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे। समोयारे सारो य सत्तहि दारेहि नाणत्तं ॥६॥ 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः-प्रवर्तनमाचारस्याभूत तच्च वाच्यं, तथा प्रथमाङ्गता च वाच्या, तथा गणी-आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं, तथा 'परिमाणम्' इयत्ता वाच्या, ॥ ८ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy