SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥७ ॥ स्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं ध्मातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादकं, तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्यः, रागद्वेषजितो जिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति; अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'आचारस्य' यथार्थनाम्नः 'भगवत' इनि धमार्थप्रयत्न गुणमाजस्तस्येवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिनियुक्तिस्ता 'कीर्तयिष्ये। अभिधास्ये इति अन्तस्तत्त्वेन निष्पना नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ यथाप्रतिज्ञातमेव विमणिपुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भुत्वाऽऽचार्यः संपिण्ड्य कथयतिआयार अंग सुयस्खंध वंभ चरणे य तहेव सत्थे य । परिणाए संणाए निक्षेवो तह दिसाणं च ॥२॥ आचारअङ्गश्रतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति । तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने निक्षेपे द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिशब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ॥ २॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह १ चाद्रन्मतेन णिज उभयपदभावात् ।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy