________________
अध्ययनं !
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.
निक्षेपनियुक्त्यनुगमः उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्राक्षेपया वक्ष्यमाणलक्षणश्चेति, उपोद्घातनियुक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-"'उद्देसे णिद्देसे य णिग्गमे खेत्तकालपुरिसे य । कारणपच्चयलक्खण णए समोयारणाऽणमए ॥१॥ किं कतिविहं कस्स कहिं केसु कह केचिरं हवह कालं। कह संतरमविरहियं भवागरिस फासणणिरुत्ती ॥ २ ॥" सूत्रस्पर्शिकनियुक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोचारणरूपः पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति-परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगं किश्चिद् विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थ प्रेक्षापूर्वकारिणां च प्रवृत्यर्थ सम्बन्धाभिधेयप्रयोजनप्रतिपादिका नियुक्तिकारो गाथामाहवंदित्त सव्वसिडे जिणे अ अणुओगदायए. सव्वे । आयारस्स भगवओ निज्जुतिं कित्तिइस्सामि ॥१॥ ___ तत्र वन्दित्वा सर्वसिद्धान् जिनश्चेिति मङ्गलवचनम् , अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्य| भिधेयवचनं, नियुक्ति करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु 'वन्दित्वे'ति 'वदि अभिवादन
१ उद्देशो निर्देशश्च निगमः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् ।। १।। किं कतिविध कस्य क केषु कथं कियचिरं भवति कालम । कति सान्तरमरहित मावकर्षाः स्पर्शना मिरुक्तिः ॥ २॥