SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ मांस्ततः किमित्याह-'इय संखाय' इत्यादि, इतिरुपप्रदर्शने 'इति' एतत्पूर्वोक्तनीत्योच्चावचस्थानोत्पादादिक 'परिसंख्याय' ज्ञात्वा को गोत्रवादी भवेद ?, यथा ममोच्चैोत्रं सर्वलोकमाननीयं नापरम्येत्येवंवादी को बुद्धिमान् भवेत् ?, तथाहि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशःप्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत ?, न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किं च-'कंसि वा एगे गिज्झे' अनेकशोऽने कस्मिन् स्थानेऽनुभूते मति तन्मध्ये कस्मिन्वा एकस्मिन्नुच्चैगोत्रादिकेऽनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात, युज्येत गाद्धय यदि तत्स्थान प्राप्तपूर्व नाभविष्यत , तच्चानेकशः प्राप्तपूर्वम् , अतस्तलाभालाभयोः नोत्कर्षापकाँ विधेयाविति, आह च-'तम्हा' इत्यादि, यतोऽनादो संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यमकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथश्चिदुच्चावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्वज्ञो 'न हृष्येत' न हर्ष विदध्याद, उक्तं च-"सर्व सुखान्यपि बहुशः प्राप्तान्यतटा मयाऽत्र संसारे । उच्च स्था. नानि तथा तेन न मे विस्मयस्तेषु॥१॥'जइ सोऽवि णिज्जरमओ पडिसिहो अट्ठमाणमहणेहिं । अवसेस मयट्ठाणा परिहरिअव्वा पयत्तेणं ॥ ३ ॥ नाप्यवगीतस्थानाप्राप्तौ वैमनस्यं विदध्याद् , आह च-नो कुप्पे अदृष्टवशात्तथाभृतलोकासम्मतं जातिकुलरूपवललाभादिकमधममवाप्य 'न कुप्येत्' न क्रोधं कुर्यात, कतरनीचस्थान शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम् , उक्तं च-"अवमानात्परिभ्रंशाधवन्धः १ यदि सोऽपि निर्गरामदः प्रतिषिद्धोऽष्टमानमथनैः । अवशेषाणि मदस्थानानि परिहर्त्तव्मानि प्रयत्नेन ।। १ । ३३॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy