________________
लोकांव. अ.२
भीआचाराजवृत्तिः (शीलाङ्का.
उद्देशकः३
पञ्चमभङ्गोपपन्नौ वा भवति, ताविमौ-नीचैर्गोत्रं बन्ध्नात्युच्चैर्गोत्रस्योदयः सत्कर्माता तूमयस्य तृतीयः, पञ्चमस्तूच्चैर्गोत्रं बध्नाति तस्यैवोदयः सत्कर्मता तूभयस्य, षष्ठसप्तमभङ्गौ तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तो चेमौ बन्धोपरमे उच्चैर्गोत्रोदय: सत्कर्माता तूमयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चैगोत्रोदयस्तस्यैव सत्कर्मातेति, तदेवमुच्चावचेषु गोत्रषु असकृदुत्पद्यमानेनासुमता पञ्चमङ्गकान्तर्वतिना न मानो विधेयो नापि दीनतेति । तयोश्वोच्चावचयोः गोत्रयोर्षन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह-'णो हीणे णो अइरित्ते' यावन्त्युच्चैगोत्रेऽनुभावबन्धाध्यवसायस्थानकण्ड कानि नीचोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि, तत्र उच्चैगोत्रकण्डकार्थतयाऽसुभृन हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति-"एगमेगे खल जीवे अईअडाए असई उचागोए असहनीआगोए, कंड. गट्टयाए नो हीणे नो अहरित्ते" एकैको जीवः खलुशब्दो वाक्यालकारे अतीते कालेऽसकदुच्चावचेषु गोत्रपूत्पन्ना, स चोच्चावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि-उच्चैर्गोत्रकण्डकेम्य एकमविकेभ्योऽनेकमविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकौं न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतश्चोच्चावचेषु स्थानेषु कम्मेवशादुत्पद्यन्ते, बलरूपलामादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्त्तव्यमित्याह-'नोऽपीहए' अपिः सम्भावने सच भिमक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहेतापि नाभिलषेदपि अथवा नो स्पृहयेव-नावकादिति । तत्र यद्यच्चावचेषु स्थानेष्वसकृत्पमोऽसु