________________
भावमापनोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुदलिते वा तिर्यक्ष्वास्तेऽनन्ता उत्सपिण्यषसप्पिणी:, आवलिकाकालासङ्ख्येयभागसमयसंख्यान् पुद्गलपराव निति, कीदृशः पुनः पुद्गलपगवर्त इति १ उच्यते, यदौदारिकवैक्रियतैजसभाषानापानमनाकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गलाः आत्मसात्परिणामिता भवन्ति तदा पुद्गलपरावर्त इत्येके, अन्ये तु | द्रव्यक्षेत्रकालभावभेदाच्चतुर्की वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्मभेदात वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रियतजसकार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः पुनये देकशरीरेण सर्वपुद्गलाः स्पर्शिता भवन्ति तदा द्रष्टव्यः १, क्षेत्रतो बादरी यदा क्रमोत्क्रमाभ्यां म्रियमाणेन सर्वे लोकाकाशप्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तु तदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्धथा सर्व लोकाकाशं व्याप्नोति तदा ग्राह्यः २, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोत्क्रमाभ्यां म्रियमाणेनालिङ्गिता भवन्ति तदा विज्ञयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेण सर्वसमया म्रियमाणेन यदा छुप्ता भवन्ति तदाऽवगन्तव्यो ३, भावतो बादरो यदाऽनुभागवन्धाध्यवसायस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणं तु संयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानादारभ्य यदा सर्वेष्वपि क्रमेण मृतो भवति तदाऽवसेय इति । तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यवास्ते, मनुष्येष्वपि तदुदयादेवावर्गीतेषु स्थानेषूत्पद्यते, तथा कलंकलीसवोऽपि द्वीन्द्रियादिषुत्पत्रः सन् प्रथमसमये एवं पर्याप्त्युत्तरकालं वोच्चैर्गोत्रं बवा मनुष्येष्वसकृदुच्चैर्गोत्रमास्कन्दति, तर कदाचित्ततीयमकस्थः
॥२३१०