________________
.२२
॥
इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं 'नोपलिम्पयन तत्र संश्लेषं कुर्या इति, विभक्तिपरिणामावा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकाः कुर्यास्त्वम् । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकविजये द्वितीय उद्देशकः समातः ॥ २-२॥
॥ अथ द्वितीयाध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादृढत्वमुक्तं, तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात् अतस्तद्वयुदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः-'जहेत्थ कुसले नोवलिंपेज्जामि' कुशलो निपुणः सबस्मिन्नुच्चैर्गोत्राभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वं, किं मत्वा, इत्यतस्तदभिधीयते
से असइ उच्चागोए असहनीआगोए, नो हीणे नो अइरित्ते (एगमेगे खलु जीवे अई. अडाए असई उच्चागोए, असहनीआगोए, कंडगट्टयाए नो होणे नो अइरित्त)नोऽपोहए, इय संखाय को गोयावाई को माणावाई १, कसि वा एगे गिझा, तम्हा नो हरिसे
नो कुप्पे, भूएहिं जाण पडिलेह सायं ॥ सू०७७ ॥ 'से असई उच्चागोए असई नीआगोएति' 'स' इति संसार्यसुमान् 'असकृद' अनेकशः उच्चैगोत्रे मानसत्काराहे,