SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ।२२७॥ समादान मिति दण्डयन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतनाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति-'पावमोक्खो'त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भविष्यतीति एवं मन्यमानः दण्डसम.दानाय प्रवर्तत इति, तथाहि-हुतभुजि पड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपधासात्तपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युग्राहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकमवशतकोटीदुम्मोचमघमेवोपाददत इति । किञ्च-'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम्, अथवा आशंसनम् आशंसा-अप्राप्तप्रापणामिलापस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्परारि वा प्रेत्य बोपस्थास्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च-'आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुसाम् ॥ १॥ एहि गच्छ पनोत्तिष्ठ,वद मौनं समाचर । इत्याचाशाग्रहग्रस्तः,क्रीडन्ति धनिनोऽर्थिभिः ॥२॥" इत्यादि। तदेवं ज्ञात्वा किं कर्तव्यमित्याह ॥२२७०.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy