________________
भीआचाराङ्गवृत्तिः शीलाङ्का.)
पर्यालोचनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणं च लोभ 'नावकाक्षति' नाभिलपतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवी विषयकषायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्व संतिष्ठते, A
लोकवि.अ.. तथाहि-अलोभ लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका उद्देशकः २ न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेशणयाऽभिकाङ्क्षति । यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचि तच्च वाच्यमिति, आह च-'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र-शस्त्रे पृथिवीकायाद्युपघातकारिणि पौन:पुन्येन वर्तते । किंच-'से आयबले' आत्मनो बलं-शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीविधत्ते, तथाहि-मांसेन पुष्यते मांस'मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्त्तते, अपराश्च लुम्पनादिकाः सूत्रणेवामिहिताः, एवं च 'ज्ञातिवल' स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यबलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिथिवलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च-तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥" एतदुक्तं भवति-तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः
२६॥ इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तः 'विरूपरूपैः'नानाप्रकारी पिण्डदानादिभिः कायें: 'दण्ड.
܀܀܀܀܀܀܀܀܀