________________
लोक. अ.वि २
श्रीआचाराङ्गवृत्तिः (शीलाका.)
उद्देशकः २
॥ २२४॥
त्याह- लोभात पारगामिनः, तपस्यानाच्छीन्यं यथा तल पारो मोक्षः संसाराणवान भूत
विविधम्-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्भावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता विमुक्ताः ते जनाः ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसाराणवतटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्याप पार इति, भवति हि तादाताच्छीन्यं यथा तन्दुलान् वर्षति पर्जन्य', अतस्तत्पारंज्ञानदर्शनचारित्राख्यं गन्तु' शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं च भवतीत्याह-लोभ' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकण्यन्तर्गतस्यापगताशेषकपायम्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभ, तद्विपक्षण अलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह-लद्ध कामे' इत्यादि, 'लब्धान्' प्राप्तानिच्छामदनरूपान् कामान् 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोमः स कामामिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो मानं माइवेन मायामाजवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्त्रकदत्तदृष्टिः पापीपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्-"'धावेह रोहणं तरह सायरं भमइ गिरिणिगुजेसु। मारेइ बंधर्वपि हु पुरिसो जो होइ धणलहो॥१॥ अडइ षष्टुं वहा
१ धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुब्जेषु । मारयति बान्धवमपि पुरुषो यो भवति धनलुब्धः ॥ १॥ भटति बहु वहति भारं सहते सुधां पापमाचरति धृष्टः । कुलशीलजातिप्रत्ययघृतिश्च लोभाभिद्रुतस्त्यजति ॥२॥
॥२२४॥