SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ०२२३॥ इत्याद्यप्यायोज्यम् । तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान प्रव्रज्याविशेषाधिभ्रति, उक्तं च-18 "स्वेच्छाविरचितशास्त्रः प्रव्रज्यावेषधारिभिः क्षद्वैः । नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥१॥" इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्ते तन्नाभार्थं च तदुपायेषु प्रवर्तन्ते इत्याह-'अणाणाए' इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्धयः 'मुनय' इति मुनिवेषविडम्बनः कामोपायान 'प्रत्युपेक्षन्ते' कामोपायारम्भेषु पोनःपुन्येन लगन्तीति, आह च-'एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पीनःपुन्येन 'सन्नाः' विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मानमाक्रष्टुनालमिति, आह च-'नो हव्वाए नो पाराए' यो हि मध्येमहानदीपूर निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमित्रापि कुतश्चिन्निमितात्यक्तगृह गृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासीदासादिविभव आकिश्चन्यं प्रतिज्ञायारातीयतीरदेश्याद्गृहवाससौख्यान्निर्गतः सन् नो हवाएत्ति भवति, पुनरपि वान्तभोगामिलाषितया यथोक्तसंयमाभावेन तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न प्रहस्थो नापि प्रजित इत्युक्तं भवति, उक्तं च-"इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया। मानुष्यं दुर्लभं प्राप्य न भुक्तं नापि शोषितम् ॥१॥” इति । ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह विमुत्ता हु ते जणा जे जणा पारगामिणो लोभमलोभेण दुगुज्छमाणे लहे कामे नाभिगाहा ।। सू०७४॥.. wwwwwwwwwwwwww
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy