________________
श्रीआचा-'
राङ्गवृत्तिः
(शीलाङ्का.)
॥ १२२ ॥
अणाणाय पुट्ठावि एगे नियति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुडायल कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए ॥ सु० ७३ ॥
आज्ञाप्यत इत्याज्ञा - हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या 'स्पृष्टाः ' 'परीषहोपसगैः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्त्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, 'एके' मोहनीयोदयाकण्डरीकादयो न सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्त्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्त्तन्त इत्याह- 'मन्दा' जडा अपगतकर्त्तव्या कर्त्तव्यविवेकाः, कुत एवंभूता १, यतो 'मोहेन प्रावृता' मोह :- अज्ञानं मिध्यात्वमोहनीयं वा तेन प्रावृत्ता-गुण्ठिताः उक्तं च - " अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः | अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १ ॥" इत्यादि, तदेवमवाप्तचारित्रोऽपि कम्मोंदियात्परीषहोदयेऽङ्गीकृतलिङ्गः पचद्भावतामालम्बन इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तपो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तत इति दर्शयति- 'अपरिग्गहा' इत्यादि, परि:- समन्तात् मनोवाक्कायकर्मभिगृ ह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभृता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् 'अभिगाहन्ते' सेवन्ते, तिव्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्माणि, अहिंसका वयं भविष्याम एवममृषावादिन
लोकवि. अ. २
उद्देशकः २
॥ २२२ ॥