________________
.२३१॥
....
.
उक्तं च-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम ॥१॥" इत्यादि, यो धज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रस्यभावं विदच्याद, आह च-अज्ञानान्धाश्चटुलवनितापाइविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वचितं भवति हि महन्मोक्षमार्गकतानं, नास्पस्कन्धे विटपिनि कषत्यसभित्ति गजेन्द्रः॥१॥ नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाचारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या बाध्यते न ज्ञानम् , अतो ज्ञानिनोऽपि-चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारते, तथा चोक्तम्ज्ञान भूरि यथार्थवस्तुविषयं स्वस्य द्विषो वाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कत स्वयम। दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सर्वः स्वं विषय प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ॥१॥" तथेदमपि भवतीन कर्णविवरमगाद् यथा-बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती'त्यतो यत्किञ्चिदेतत , अथवा नारत्यापन एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् के गुणमवाप्नोतीत्याह-'खणंसि मुक्के' परमनिरुद्धः कालः क्षणः जरत्पशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वा क्षणेन-अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतदिति, ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसंसारान्तर्वतिनो दुःखसागरमधिवसन्तीत्याह च
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ २२१ ॥